| YouTube Channel

अतिनिर्हारी अतिनौः (atinirhArI atinauH)

 
E Bharati Sampat
Sanskrit
(वि)(अतिनिर्हारिन्)। निःशेषेण हरति दूरं गच्छति अतिशयितः निर्हारी समाकर्षणशीलः। बह्वाकर्षकः, अत्यन्तमनोहरः।‘समाकर्षी तु निर्हारी’ अमरः। (वि) (अतिनु)। नावम् अतिक्रान्तः। अतीतनौकः। (न) अतिनु अतिनौ, हृस्वः। ‘गोस्त्रियोरुपसर्जनस्य’ १.२.४८। नौकाम् अतिक्रान्तं जलादि, अतीतनौकम् ‘अतीतनौकेऽतिनु त्रिषु’ अमरः।